Shri Stavah - 11 Times With Lyrics | श्री स्तवः | Goddess Lakshmi Chant | Rajshri Soul

2023-03-27 83

Presenting you Goddess Lakshmi's Powerful Chant 'Shri Stavah' only on rajshrisoul

Lyrics-
ॐ श्रीदेवी महावक्त्रा चतुर्वर्णा चतुर्भुजा ।
प्रज्ञावीर्य रसज्ञेया चिन्तामणिकुरु स्मृता ॥ १॥

श्रीशालिकान्तरूपा त्वं स्निग्धगात्रं च तण्डुलम् ।
ददासि मे सदा चित्रं सौभाग्यं लोकपूजितम् ॥ २॥

श्रीताण्डुली महादेवी श्रीमत् कमलशोभिता ।
ददासि मे महाभोग्यं सर्वद्रव्यहितं धनम् ॥ ३॥

श्रीव्रीहिमुक्ताजीवा त्वं सर्वभूप सुनन्दिनी ।
ददासि मे सुखं नित्यं जीवितं धातुकाञ्चनम् ॥ ४॥

श्रीधान्य देविका रम्या सर्वरूपवती तथा ।
सर्वज्ञानमणिश्चैव श्रीश्रीदेवी नमोऽस्तु ते ॥ ५॥

ब्रह्मादिस्तम्बपर्यन्तं जगत् स्थावरजङ्गमम् ।
शिवाङ्गमिति तत्सर्वं मां रक्षतु नमोऽस्तु ते ।
श्रीदेवी सततं मूर्ध्ना त्वां नमामि च शक्तितः ॥ ६॥

Free Traffic Exchange